(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.138. अध्यायः 138
Mahabharata - Udyoga Parva - Chapter Topics
भीष्मद्रोणाभ्यां कुन्तीवाक्यं श्रुत्वा समीपस्थं दुर्योधनं प्रति पाण्डवानां कुन्तीनिदेशानतिलङ्घित्वकथनपूर्वकं पाण्डवैः सह सन्धिविधानम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-138-0x(3795)(36525)
कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ।
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥ 5-138-1(36526)
श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ ।
वाक्यमर्थवदत्युग्रमुक्तं धर्म्यमनुत्तमम् ॥ 5-138-2(36527)
तत्करिष्यन्ति कौन्तेया वासुदेवस्य संमतम् ।
न हि ते जातु शाम्येरन्नृते राज्येन कौरव ॥ 5-138-3(36528)
क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा।
सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव ॥ 5-138-4(36529)
कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्चयम् ।
गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च ॥ 5-138-5(36530)
नकुलं सहदेवं च बलवीर्यसमन्वितौ ।
सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः ॥ 5-138-6(36531)
प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता ।
विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः ॥ 5-138-7(36532)
दानवा घोरकर्माणो निवातकवचा युधि।
रौद्रमस्त्रं समादाय दग्धा वानरकेतुना ॥ 5-138-8(36533)
कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी।
मोक्षितो घोषयात्रायां पर्याप्तं तन्निदर्शनम् ॥ 5-138-9(36534)
प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः ।
रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम् ॥ 5-138-10(36535)
ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्कविः ।
तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् ॥ 5-138-11(36536)
दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः ।
प्रशान्तभ्रुकुटिः श्रीमान्कृता शान्तिःकुलस्य नः॥ 5-138-12(36537)
तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् ।
अभिवादय राजानं यथापूर्वमरिन्दम ॥ 5-138-13(36538)
अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः ।
प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः ॥ 5-138-14(36539)
सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः ।
परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः ॥ 5-138-15(36540)
कम्बुग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः ।
अभिवादयतां पार्थः कुन्तीपुत्रो धनञ्जयः ॥ 5-138-16(36541)
आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि ।
तौ च त्वां गुरुवत्प्रोम्णा पूजया प्रत्युदीयताम् ॥ 5-138-17(36542)
मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः ।
संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव ॥ 5-138-18(36543)
प्रशाधि पृथिवीं कृत्स्नां ततस्त्वं भ्रातृभिः सह ।
समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् ॥ 5-138-19(36544)
अलं युद्धेन राजेन्द्र सुहृदां शृणु वारणम् ।
ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते ॥ 5-138-20(36545)
ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः।
उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः ॥ 5-138-21(36546)
विशेषत इहास्माकं निमित्तानि विनाशने।
उल्काभिर्हि प्रदीप्ताभिर्बाध्यते पृतना तव ॥ 5-138-22(36547)
वाहनान्यप्रहृष्टानि रुदन्तीव विशांपते।
गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः ॥ 5-138-23(36548)
नगरं न यथापूर्वं तथा राजनिवेशनम् ।
शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशं ॥ 5-138-24(36549)
कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् ।
त्वय्यायत्तो महाबाहो शमो व्यायाम एव च ॥ 5-138-25(36550)
न चेत्करिष्यसि वचः सुहृदामरिकर्शन ।
तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् ॥ 5-138-26(36551)
भीमस्य च महानादं नदतः शुष्मिणो रणे।
श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निःश्वनम् ।
यद्येतदपसव्यं ते वचो मम भविष्यति ॥ ॥ 5-138-27(36552)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-138-10 प्रशाम्य प्रशमं कुरु ॥ 5-138-20 वारणं प्रतिषेधम् ॥ 5-138-24 दीप्तां दिशमिति दिग्दाहाख्य उत्पात उक्तः ॥ 5-138-27 शुष्मिणः बलिनः । अपसव्यं विपरीतम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.